अनभ्यासेन विद्यानाम्...

सुभाषितम्

अनभ्यासेन विद्यानाम् असंसर्गेण धीमताम् ।
अनिग्रहेण चाक्षाणां जायते व्यसनं नृणाम् ॥

काव्यादर्शः २-२४७ सरस्वतीकण्ठाभरणम् ३२६-३१

anabhyāsena vidyānām asaṃsargeṇa dhīmatām ।
anigraheṇa cākṣāṇāṃ jāyate vyasanaṃ nṛṇām ॥

पदच्छेदः

अनभ्यासेन, विद्यानाम्, असंसर्गेण, धीमताम्, अनिग्रहेण, चाक्षाणां, जायते, व्यसनं, नृणाम्।


तात्पर्यम्

विद्याभ्यासस्य अकरणेन, सज्जनानां सहवासराहित्येन, इन्द्रियाणाम् अनिग्रहेण च मनुष्याः दुरभ्यासैः युक्ताः भवन्ति ।


आङ्ग्लार्थः

Because men are not devoted to learning, have no contact with wise people and do not restrain senses, disaster arises