रामायणसूक्तयः (अनार्यमैत्री)

(अनार्यमैत्री इत्यस्मात् पुनर्निर्दिष्टम्)

१. यथा पुष्करपत्रेषु पतितास्तोयबिन्दवः ।

न श्लेषमभिगच्छन्ति तथानार्येषु सौहृदम् ॥ (युद्धकाण्डः १६/११)

२. यथा मधुकरस्तर्षात् काशपुष्पं पिबन्नपि ।

रसमत्र न विन्देत तथानार्येषु सौहृदम् ॥ (युद्धकाण्डः १६/१४)

३. यथा पूर्वं गजः स्नात्वा गृह्य हस्तेन वै रजः ।

दूषयत्यात्मनो देहं तथानार्येषु सौहृदम् ॥ (युद्धकाण्डः १६/१५)