सुभाषितम्

अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः ।
आरोग्यं प्रियसंवासो गृध्येत् तत्र न पण्डितः ॥

महाभारतम् ३-२-४५

anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasañcayaḥ ।
ārogyaṃ priyasaṃvāso gṛdhyet tatra na paṇḍitaḥ ॥

पदच्छेदः

अनित्यं, यौवनं, रूपं, जीवितं, द्रव्यसञ्चयः,आरोग्यं, प्रियसंवासो, गृध्येत्, तत्र, न, पण्डितः ।


तात्पर्यम्

तारुण्यं, रूपम्, आयुः, धनराशिः, आरोग्यं, प्रियजनस्य सहवासः - इदं सर्वमपि अशाश्वतम् । बुद्धिमान् एषु विषयेषु आसक्तः न भवेत् ।


आङ्ग्लार्थः

Transceient are : youth, beauty, life, wealth, kingdom, association with friends, a wise one does not care for them.

"https://sa.wikiquote.org/w/index.php?title=अनित्यं_यौवनं_रूपं...&oldid=17424" इत्यस्माद् प्रतिप्राप्तम्