सुभाषितम्

अनिर्वेदमसिद्धेषु साधितेष्वनहङ्कृतिम् ।
अनालस्यं च साध्येषु कृत्येष्वनुगृहाण नः ॥

न्यासकलानिधिस्तवः

anirvedamasiddheṣu sādhiteṣvanahaṅkṛtim ।
anālasyaṃ ca sādhyeṣu kṛtyeṣvanugṛhāṇa naḥ ॥

पदच्छेदः

अनिर्वेदम्, असिद्धेषु, साधितेषु, अनहङ्कृतिम्, अनालस्यं, च, साध्येषु, कृत्येषु, अनुगृहाण, नः ।


तात्पर्यम्

यद् न साधितं तद्विषये खेदःयथा न स्यात्, साधितस्य विषये अहङ्कारः यथा न स्यात्, यत् साध्यमानमस्ति तद्विषये आलस्यं यथा न स्यात् तथा अस्मान् अनुगृह्णातु ।


आङ्ग्लार्थः

Bless us not to be unhappy about that which we have been unable to accomplish. Let us not be proud of that which we have accomplished. Let us not be lazy about that which we are capable of accomplishing.

"https://sa.wikiquote.org/w/index.php?title=अनिर्वेदमसिद्धेषु...&oldid=17762" इत्यस्माद् प्रतिप्राप्तम्