अनीशश्चात्मा बध्यते भोक्तृभावात्, ज्ञात्वा देवं मुच्यते सर्वपाशैः । - श्वेताश्वतरोपनिषत् १-८

जीवात्मा भोक्तृभावात् अविद्याधीनः सन् बध्यते, देवं ज्ञात्वा सर्वपाशैः प्रमुच्यते ।

जीवः अनीशः सन् बद्धो भवति । ईशो नाम स्वतन्त्रः, स्वामी, प्रभुः, राजा । अनीशो नाम
दासः, कृपणः, सेवकः, अधीनः- इत्यर्थः । आत्मानं कर्मफलभोक्तारं मत्वा जीवः देहेन्द्रियाभिमानवान्
अविद्यया कर्मफलदासः सन् बध्यते ॥

स एव जीवः देवं विजानाति चेत् तदा मुच्यते । देवो नाम साक्षी प्रत्यगात्मा । अकर्ता अभोक्ता च
प्रत्यगात्मा देवः । स्वयं प्रत्यगात्मा देव एव, न तु कर्मफलतन्त्रः जीवः इतिज्ञानमेव हि विद्या नाम ।
एवंवित् सर्वपाशेभ्यो मुच्यते । पाशो नाम रज्जुः संसारबन्धनम् । पुण्यपापे एव पाशः, धर्माधर्मावेव
संसारबन्धः । एतेभ्यो बन्धनेभ्यो मुच्यते । पुनः असौ न जायते इत्यर्थः । कृतकृत्यो भवति, धन्यो
भवति इत्यर्थः । जीवन्मुक्तो भवति ॥

"https://sa.wikiquote.org/w/index.php?title=अनीशश्चात्मा_बध्यते...&oldid=16603" इत्यस्माद् प्रतिप्राप्तम्