अनुगन्तुं सतां वर्त्म...

सुभाषितम्

अनुगन्तुं सतां वर्त्म कृत्स्नं यदि न शक्यते ।
स्वल्पमप्यनुगन्तव्यं मार्गस्थो नावसीदति ॥

वल्लभदेवस्य सुभाषितावली २६४

anugantuṃ satāṃ vartma kṛtsnaṃ yadi na śakyate ।
svalpamapyanugantavyaṃ mārgastho nāvasīdati ॥

पदच्छेदः

अनुगन्तुं, सतां, वर्त्म, कृत्स्नं, यदि, न, शक्यते, स्वल्पम्, अपि, अनुगन्तव्यं, मार्गस्थः, न, अवसीदति।


तात्पर्यम्

सज्जनानां मार्गं पूर्णतया अनुसर्तुं यदि न शक्यं तर्हि अल्पतः वा अनुसर्तव्यम् । सत्पथे विद्यमानः कदापि विनष्टः न भविष्यति।


आङ्ग्लार्थः

Even if it is not possible to follow the righteous path entirely, one should do it as much as he can. One who is in the righteous path, will never suffer.