अनेन ज्ञानमाप्नोति संसारार्णवनाशनम् । - कैवल्योपनिषत् २-२४

जन्मजरामरणादुःखसंसारसागरनाशकम् आत्मज्ञानम् अनेन प्राप्नोति ।

आत्मज्ञानेन उदितेन किं प्रयोजनम् ? इति अनेके पृच्छन्ति । तेषां मते धनं,
धान्यं, पुत्राः, पौत्राः, कीर्तिः, अधिकारादीनि फलानि आत्मज्ञानेन प्राप्यन्ते वा ?
इति । न प्राप्यन्ते इत्येव प्रतिवचनम् । एतैः फलैः आत्मज्ञानस्य च न कोऽपि
सम्बन्धो विद्यते । तर्हि आत्मज्ञानस्य फलं किम् ? इति चेत् , अयं मन्त्रः
उपदिशति उत्तरम् ॥

संसारार्णवनाशनमेव ज्ञानस्य फलम् । संसारो नाम जन्मजरादुःखमरणानां प्रवाहः ।
संसारः सागरेण उपमीयते । संसारः सागरादपि अगाधः, अनन्तः, भयङ्करः, दुस्तरश्च
भवति । अज्ञानेनैव कामकर्माणि जन्ममरणानि भवन्ति । ज्ञाने उदिते सति संसारसागरः
शुष्को भवति । आत्मज्ञानस्य उदये सति दुःखरूपः संसार एव न विद्यते । आत्मज्ञानिनः
पुनर्जन्म नास्त्येव । ज्ञानी सदा जन्ममरणरहितसहजानन्दसागरे मग्नो हि भवति ॥

"https://sa.wikiquote.org/w/index.php?title=अनेन_ज्ञानमाप्नोति...&oldid=16342" इत्यस्माद् प्रतिप्राप्तम्