अन्तः शरीरे ज्योतिर्मयो...

एते एव यतिपुङ्गवाः

अन्तः शरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः । - मुण्डकोपनिषत् ३-१-५

ज्योतिर्मयः शुभ्रः आत्मा शरीरे अन्तः वर्तते । इममात्मानं क्षीणदोषाः
यतयः पश्यन्ति ॥

आप्नोति इति आत्मा, सर्वव्यापकः परिपूर्णः परमात्मा । आत्मशब्दस्य
निर्वचनमेतत् यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य
सन्ततो भावः तस्मादात्मेति कीर्त्यते ॥

सर्वम् आप्नोति इत्यात्मा, सर्वमपि आत्मसामीप्यम् आदत्ते इत्यात्मा,
सर्वान् विषयान् जीवरूपेण अत्ति इति च आत्मा । सर्वस्मिन्नपि वस्तुनि
यः ओतप्रोतत्वेन वसति स एव आत्मा । सर्वव्यापकमपि इमम् आत्मानं
प्रप्रथमं जिज्ञासुः स्वस्मिन्नेव पश्येत् । मनसः साक्षिभूतमात्मानं स्वस्मिन्नेव,
जानीयात् ॥

देहे एव विद्यमानोऽप्यात्मा देहदोषविवर्जितः । आत्मा तु नित्यचैतन्यस्वरूप
एव । सर्वव्यापकोऽपि आकाशः असङ्गतया दोषरहित एव । आत्मा अपि
शुद्धस्वरूप एव । ईदृशम् आत्मानं साधकाः यतयः एव सम्यक् पश्येयुः ।
एते एव यतिपुंगवाः ॥