अन्तरङ्गबहिरङ्गन्यायः

अन्तरङ्गं नाम समीपे वर्तमानम् । बहिरङ्गं नाम दूरे वर्तमानम् । अन्तरङ्गं बहिरङ्गस्य अपेक्षया बलवद् भवति । अस्य न्यायस्य प्रयोगः व्याकरणशास्त्रे मीमांसाशास्त्रे च भवति । यथा -ये धर्मा अपूर्वार्थास्ते साक्षाद्पूर्वेण असंबध्यमानास्तदङ्गेषु प्रवर्तमाना अन्तरङ्गे तावत् आपतन्ति । ततो व्यवहिते बहिरङ्गं यत्र च पूर्वम् अपतति तत्रैव तिष्ठति । तदतिक्रमे कारणाभावात् (जैमिनिसूत्रं १२-२-११ शाबरभाष्ये) । (पाणिनिसूत्रं १-१-४,१-१५) महाभाष्ये ) ।