एकः सत्पुरुषः एकम् अन्धम् उक्तवान् ‘अनेन मार्गेण पुरतः गच्छ’ इति । परं स अन्धः तत् अश्रुत्वा अयोग्येन मार्गेण गत्वा किञ्चित् कालानन्तरं एकस्मिन् कूपे पतितः । तथैव मनुष्यः सन्मार्ग विहाय कुमार्गम् आश्रयति चेत् अन्ध इव सोऽपि कूपम् एव पतितः भवेत् । एतादृशीं स्थितिं बोधयितुम् अस्य न्यायस्य प्रयोगः भवति ।(सा.४९३)

"https://sa.wikiquote.org/w/index.php?title=अन्धकूपन्यायः&oldid=8186" इत्यस्माद् प्रतिप्राप्तम्