प्रहेलिका

अपदो दूरगामी च साक्षरो न च पण्डितः।
अमुखः स्फुटवक्ता च यो जानाति स पण्डितः॥



अर्थः

पादौ न विद्येते चेदपि बहु दूरं गच्छति । अक्षरज्ञानं विद्यते चेदपि पण्डितः न । मुखरहितः चेदपि स्फुटं वक्तुं समर्थः अस्ति । किं तत् ?


उत्तरम्

पत्रम्


"https://sa.wikiquote.org/w/index.php?title=अपदो_दूरगामी_च...&oldid=17278" इत्यस्माद् प्रतिप्राप्तम्