अपराह्णतः अर्थात् मध्याह्नात् सन्ध्यासमयं यावत् छाया क्रमेण वर्धते । दुष्टैः सह मैत्री कृता चेत् सा आदौ अतीव घना भवति परं क्रमेण सा न्यूना भवति । सज्जनैः तु कृता मैत्री आरम्भे लघ्वी भवति चेदपि क्रमेण वर्धते । अस्य न्यायस्य अयमभिप्रायः द्रष्टव्यम् -

आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्ध-परार्ध भिन्ना छायेव मैत्री खलसज्जनानाम् ॥
(भर्तुहरिनीतिशतके ४९) (सा-३३२)
"https://sa.wikiquote.org/w/index.php?title=अपराह्णछायान्यायः&oldid=8298" इत्यस्माद् प्रतिप्राप्तम्