अपसारिताग्निभूतलन्यायः

भूतले वर्तमानम् अग्निम् अन्यत्र स्थापयामः चेत् पूर्वस्थले कञ्चित् कालं यावत् उष्णता भवत्येव । तथैव कोऽपि मनुष्यः स्वस्थानात् अन्यत् स्थानं प्रति नीतः तथापि तस्य गुणानां कश्चन प्रभावः पूर्वस्थाने भवत्येव ।