सुभाषितम्

अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते ।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥

रामायणम्

api svarṇamayī laṅkā na me lakṣmaṇa rocate ।
jananī janmabhūmiśca svargādapi garīyasī ॥

पदच्छेदः

अपि, स्वर्णमयी, लङ्का, न, मे, लक्ष्मण, रोचते, जननी, जन्मभूमिः, च, स्वर्गात्, अपि, गरीयसी ॥


तात्पर्यम्

लक्ष्मण ! इयं लङ्का सुवर्णमयी एव चेदपि मम इच्छा नास्ति । जननी जन्मभूमिश्च स्वर्गादपि श्रेष्ठा ।


आङ्ग्लार्थः

O Lakshman, even though Lanka is a golden land, it does not appeal to me. One's mother and motherland are greater than heaven itself.

"https://sa.wikiquote.org/w/index.php?title=अपि_स्वर्णमयी_लङ्का...&oldid=17453" इत्यस्माद् प्रतिप्राप्तम्