अपूर्वोऽयं मया दृष्टः...

अपूर्वोऽयं मया दृष्टः कान्तः कमललोचने ।
शोऽन्तरं यो विजानाति स विद्वान्नात्र संशयः ॥

अस्य श्लोकस्य भासमानः अर्थः, वास्तविकः अर्थः इति अर्थद्वयम् ।
- हे सुन्दरि, अपूर्वं कान्तञ्च किञ्चन वस्तु मया दृष्टम् । मध्ये 'शो' इति विद्यते ।
इदं यः जानाति सः पण्डितः ।
- हे सुन्दरि, आदौ अकारयुक्तम्, अन्ते ककारयुक्तं, मध्ये शोकारयुक्तञ्च
वस्तु मया दृष्टम् । इदं यः जानाति सः पण्डितः ।

उत्तरम्

अशोकः