एकस्य वाक्यस्य वाक्यान्तरेण सह संबन्धः भवति चेत् तत्र निषेधस्य शक्यता भवति । यदि कोऽपि संबन्ध एव नास्ति तर्हि निषेधः अशक्यः भवति इति अनेन न्यायेन सूच्यते । यथा- पुष्पाणि प्रातः काले विकसन्ति सन्ध्यासमये न । अयं प्रसक्तस्य निषेधः । यतः पुष्पाणां विकासः इत्ययं प्रसक्तः विषयः वर्तते । अन्धकारस्य वर्णः शुभ्रः न भवति इति अप्रसक्तनिषेधः ।

"https://sa.wikiquote.org/w/index.php?title=अप्रसक्तनिषेधन्यायः&oldid=8301" इत्यस्माद् प्रतिप्राप्तम्