समुद्रः फेनं च इति अस्य न्यायस्य उपयोगः अद्वैतवेदान्तस्य ग्रन्थेषु दृश्यते । समुद्रे फेनं, तरङाः इत्यादयः दृश्यन्ते चेदपि तेषां स्वतन्त्रम् अस्तित्वं न भवति । समुद्रात् ते भिन्नाः इति आभासः भवति । समुद्रे या विक्षेपरुपेण माया भवति तस्याः कारणेन द्रष्टुः तरङ्गादिकस्य आभासः भवति । तथैव ब्रह्मणः या विक्षेपशक्तिसहिता माया भवति तस्याः कारणेन जगतः तस्मिन् वर्तमानानां विभिन्नानां पदार्थानां च आभासः भवति । अयम् आभासात्मकः विवर्तः । एतस्मात् जगत् उत्पन्नम् इव भाति । अयम् एव नामरुपात्मकः विस्तारः । शङ्कराचार्याः एतम् एव दृग्दृश्यविवेक इति कथयन्ति । (सा.६३६)

"https://sa.wikiquote.org/w/index.php?title=अब्धिफेनादिन्यायः&oldid=8302" इत्यस्माद् प्रतिप्राप्तम्