यदा प्रयत्नं कृत्वापि मनुष्यः किमपि कार्य साधयितुं न शक्नोति तदा सः आत्मानं समाश्र्वासयन् वदति ‘साधु जातं, ममापि तस्य वस्तुनः आवश्यकता कुत्र आसीत् ? न प्राप्तमिति साधु जातम्’ इति । एवम् आत्मानं समाश्वासयतः मनुष्यस्य वर्णनं कर्तुम् एतस्य न्यायस्य प्रयोगः क्रियते ।

"https://sa.wikiquote.org/w/index.php?title=अभावविरक्तिन्यायः&oldid=8304" इत्यस्माद् प्रतिप्राप्तम्