अभिमानविचारोयं...


अभिमानविचारोऽयं मम यत्
इदं हिन्दुराष्ट्रम् ।
ॠषिमुनिकविभि: पाश्चात्त्यैरपि
नुतं सर्वश्रेष्ठम्, इदं हिन्दुराष्ट्रम् ॥

माता भूमि:, पुत्रोऽहम् मातु: कार्यासक्तोऽहम् ।
त्यागात्तापात् तनुजातानां नश्यति नैव सुखम् ॥

यस्यां गङ्गा अवतरति, देवो हि जनानुद्धरति
यस्यां जात: सञ्चितपुण्यै: लब्धे स्वर्गे सञ्चरति
देवानामपि जननं यत्र विद्यतेऽभीष्टम् ॥

आर्यं विश्वं करणीयं मुनिभिर्दृष्ट: स्वप्नोऽयम्
तत्कुलजातैरस्माभि: सर्वमिदं हृदि धरणीयम्
येन भवेेदखिलेऽपि प्रपञ्चे पुन: सर्वमान्यम् ॥


- डा नारायणभट्ट:


"https://sa.wikiquote.org/w/index.php?title=अभिमानविचारोयं...&oldid=15435" इत्यस्माद् प्रतिप्राप्तम्