• अभ्यासोऽस्त्येकं तद्वस्तु, यस्याऽश्रयेण जनः सर्वविधमेव नैपुण्यं प्राप्नोति ।
    • अस्ति कश्चिद् वागर्थायम् पृ ३४
  • अभ्यास एव गुरुः ।
    • अङ्गुष्ठदानम् पृ ६६
  • अतिक्रान्तान्यर्हणीयसभाजनानि किल श्रेयसां परिपन्थीनि भवन्ति ।
    • चण्डकौशिकम्, पृ ० ६३
  • अमात्या नृपतेर्यस्य जानन्ति मनसि स्थितम् ।
कुर्वन्ति च शुभोदर्कं धर्मं स्वर्गं स विन्दति ॥
    • यज्ञफलम् १,५
  • छिद्रान्वॆषि खल्वमङ्गलम् ॥
    • आनन्दराघम् पृ ० ९०
  • सत्वभङ्गभयाद्राज्ञां कथयन्त्यन्यथा पुरः ।
अन्यथा विवृतर्थेषु स्वैरालापेषु मन्त्रिणः ॥
    • मुद्राराक्षसम्, पृ ० ११७
"https://sa.wikiquote.org/w/index.php?title=अभ्यासः&oldid=242" इत्यस्माद् प्रतिप्राप्तम्