समर्थरामदासः (१६०८-१६८१) महाराष्ट्रस्य कश्चन धार्मिककविः, संन्यासी च । अयं भगवतः रामस्य हनुमतश्च परमभक्तः आसीत् ।

अमृतवचनानि सम्पाद्यताम्

  • शक्त्या राज्यस्य उपलब्धिः भवितुम् अर्हति, युक्त्या च कार्यसिद्धिः भवितुम् अर्हति । यत्र शक्तिः युक्तिः च भवतः तत्र श्रियाः आवासः भवितुम् अर्हति ।
  • प्रगतिः, संस्कृतिः, सभ्यता इत्यादिकं यत् उच्यते तत् बाह्यमात्रं न स्यात् । अस्माकं वस्त्रवर्णरूपमात्रस्थितं न स्यात् तत् । अद्य जनाः महान्तं परिश्रमं तु कुर्वन्ति । किन्तु केन उद्देशेन ? केवलाय शरीरपोषणाय, शरीरपूजनाय च । आत्मतत्त्वं पदतले निक्षिप्य देहतत्त्वस्य शिरसि धारणेन किं प्रयोजनम् ? चिन्तामणिं क्षिप्त्वा काचमणिं सङ्गृह्णन्तं जनं को वा श्रेष्ठं वदेत् ? (स्वामी रामतीर्थः, प्र.ग.सहस्रबुद्धे, पृ. - 66)
"https://sa.wikiquote.org/w/index.php?title=समर्थरामदासः&oldid=17533" इत्यस्माद् प्रतिप्राप्तम्