अरण्ये एकम् आमलकफलम् उत्पन्नम् । कुतश्चित् दूरात् समुद्रात् आनीतं लवणम् । द्वयोः मेलनेन कृतः अवलेहः । तथैव कुत्रचित् जातः पुरुषः अन्यत्र कुत्रचित् जाता स्त्री । तयोः मेलनं भवति सः च संसारः बहुकालं यावत् सम्यग्रीत्या प्रवर्तते । एतादृशस्य संदर्भस्य वर्णनम् अनेन न्यायेन क्रियते ।

"https://sa.wikiquote.org/w/index.php?title=अरण्यरोदनन्यायः&oldid=8311" इत्यस्माद् प्रतिप्राप्तम्