अरुन्धती-नक्षत्रदर्शनेन सह अस्य न्यायस्य संबन्धः विद्यते । विवाहस्य समये वधूवराभ्यां वसिष्ठतारा - दर्शनं कारयन्ति । तत्पूर्वम् अरुन्धती- नक्षत्रस्य दर्शनं कारयन्ति (वसिष्ठः अरुन्धती च दम्पती) लौकिकदम्पतीभ्याम् अलौकिकदम्पत्योः दर्शनम् एवं कार्यते । उपदेशसमये अन्तिमलक्ष्यस्य अवान्तरलक्ष्याणाम् अपि उपदेशः क्रियते इति न्यायेन क्रमशः उपदेशः भवतीति अर्थः व्यज्यते । अरुन्धती - नक्षत्रस्य दर्श्नसमये अपि अन्यस्य नक्षत्रस्य दर्शनं पूर्व कार्यते । द्रष्टव्यम् - यथा अरुन्धतीं दिदर्शयिषुः तत्समीपस्थां स्थूलां ताराम् अमुख्यां प्रथमम् अरुन्धती इति ग्राहयित्वा तां प्रत्याख्याय पश्चाद् अरुन्धतीम् एव ग्राहयति तद्वत् ब्राह्मणम् आत्मेति भूयात् ।

"https://sa.wikiquote.org/w/index.php?title=अरुन्धतीन्यायः&oldid=8313" इत्यस्माद् प्रतिप्राप्तम्