रामायणसूक्तयः (अर्थः)
(अर्थः इत्यस्मात् पुनर्निर्दिष्टम्)
१. अर्थी येनार्थकृत्येन संव्रजत्यविचारयन् ।
- तमर्थमर्थशास्त्रज्ञाः प्राहुरर्थ्याः सुलक्ष्मण ॥ (अरण्यकाण्डः ४३/३४)
२. दशाविभागपर्याये राज्ञां वै चञ्चलाः श्रियः । (युद्धकाण्डः १११/८९)
३. यद् द्रव्यं बान्धवानां वा
- मित्राणां वा क्षये भवेत् ।
- नाहं तत् प्रतिगृह्णीयां
- भक्ष्यान् विषकृतानिव ॥ (अयोध्याकाण्डः ९७/४)
४. अर्थेभ्योऽथ प्रवृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः ।
- क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥ (युद्धकाण्डः ८३/३२)