वैशसं नाम हिंसा । कुक्कुट्याः अर्धभागं मारयित्वा तस्य भोजनार्थम् उपयोगः करणीयः अपरः भागः अण्डानां कृते रक्षणीयः इति कोऽपि चिन्तयति चेत् मूर्खत्वमेव खलु । कुक्कुटी भोजनार्थ पूर्णतः मारणीया किंवा अण्डानां कृते रक्षणीया इति एकतरस्य एव ग्रहणं करणीयम् । अर्धभागः मारणीयः अर्धभागः रक्षणीय इति तु अत्यन्तम् असंभवि ।

तुल्यन्यायौ- अर्धजरतीयन्यायः, अर्धकुक्कुटीन्यायः यथा -

विधिना कृतमर्धवैशसं ननु मां कामवधे विमुञ्चता ।
अनपायिनि संशयद्रुमे गजभग्ने पतनाय वल्लरी ॥

(कुमारसंभवम् ४-३९) (सा. ८७६)

"https://sa.wikiquote.org/w/index.php?title=अर्धवैशसन्यायः&oldid=8260" इत्यस्माद् प्रतिप्राप्तम्