सुभाषितम्

अलब्धं चैव लिप्सेत लब्धं रक्षेदवेक्षया ।
रक्षितं वर्धयेत् सम्यग् वृद्धं पात्रेषु निक्षिपेत् ॥

मनुस्मृतिः ७/१००

alabdhaṃ caiva lipseta labdhaṃ rakṣedavekṣayā ।
rakṣitaṃ vardhayet samyag vṛddhaṃ pātreṣu nikṣipet ॥

पदच्छेदः

अलब्धं, च, एव, लिप्सेत, लब्धं, रक्षेत्, अवेक्षया, रक्षितं, वर्धयेत्, सम्यग्, वृद्धं, पात्रेषु, निक्षिपेत् ॥


तात्पर्यम्

न लब्धं चेत् तस्य प्राप्त्यर्थं प्रयत्नः कर्तव्यः। हस्तगतं यत् भवेत् तत् जागरूकतया रक्षणीयम् । यत् रक्षितं तत् यथा वर्धेत तथा पालनीयम् । एवं यद् संरक्ष्य वर्धितं तत् योग्ये पात्रे निक्षिपेत् ।


आङ्ग्लार्थः

Whatever is not available in one‘s life, efforts be made to secure it, whatever is so secured be properly retained safe, besides what ever is retained in tact, try to improve the same; these are the four kinds of Purushardhas of Dharma-Artha-Kaama-Mokshas, and these principles of human aspirations be pursued without fail.०

"https://sa.wikiquote.org/w/index.php?title=अलब्धं_चैव_लिप्सेत...&oldid=17509" इत्यस्माद् प्रतिप्राप्तम्