अविद्यायां बहुधा वर्तमानाः...

अविद्यायां बहुधा वर्तमानाः वयं कृतार्थाः इत्यभिमन्यन्ति बालाः । - मुण्डकोपनिषत् १-२-९

अविद्यायां बहुप्रकारेण विद्यमाना अपि आत्मानं कृतार्थान् मन्यमानाः एते मूढाः बाला एव ।

आत्मज्ञानस्य रुचिमेव अजानन्तः, ज्ञातुं प्रयत्नमपि अकुर्वन्तः, आत्मज्ञानविचारे अपहास्यं कुर्वन्तः,
केवलानि शास्त्रीयाणि कर्माण्येव कुर्वन्तः, तदेव तावतैव मानवजन्मनः सार्थक्यं मन्यमानाः पुरुषाः ये
विद्यन्ते, ते अत्र मन्त्रे ‘बालाः’ इति निन्द्यन्ते । वयसा वृद्धा अपि आत्मविचारमार्गे तत्त्वविवेके असमर्थाः
इतिहेतुना एते 'बालाः' इति व्यपदिश्यन्ते ॥

केवलकर्मिणः अविद्यायां निमग्नाः । अविद्या नाम अध्यासः, मिथ्याज्ञानम् । आत्मानं देहं, कर्तारं, भोक्तारं
मन्यन्ते चेत् ननु अयम् अध्यासः ? क्रियाकारकफलेषु सत्यत्वबुद्धिर्हि अविद्या । कृत्वा फलप्राप्तिर्हि अविद्या ।
अविद्याव्यवहारे मग्ना अपि ते आत्मानं 'बुद्धिमन्तः कृतार्थाः' इति मन्यन्ते खलु ! अहो ! अयमेव खलु
अविद्याप्रभावो नाम ! एते नूनमपि बाला एव ॥