अश्मा भवतु नस्तनूः ॥
अश्मा भवतु नस्तनूः ॥ (अथर्ववेदः २-१३-४)
सम्पाद्यताम्अस्माकं शरीरं शिलासदृशं भवतु ।
- 'शरीरमाद्यं खलु धर्मसाधनम्' इत्येषा उक्तिः श्रुतपूर्वा एव । अलसेन किमपि कार्यं वा धर्मसाधनं वा कर्तुम् अशक्यम् । समीचीनतया ज्ञातं समीचीनतया आचरणीयम् । आचरणस्य माध्यममेव इदं शरीरम्, मनश्च । स्वस्थे शरीरे भवति स्वस्थं मनः । मानसिकारोग्येण शारीरकारोग्यम् । अस्माकं विचाराः विशालाः स्युः । स्वार्थरहिताः स्युः । कोपासूयादीनाम् अवसरः न स्यात् । अस्माकम् आहारः सात्त्विकः प्राकृतिकश्च स्यात् । दुराहार-दुरभ्यासानां स्थानं न स्यात् । नित्यकार्याणि अनुशासनबद्धानि स्युः । अति न स्यात् । निष्क्रियता अपि न स्यात् । उत्साहयुक्तता स्यात् । सर्वः व्यवहारः ऋजुः स्यात् । निष्कपटं स्यात्, पारदर्शकं स्यात् । एतैः यत् शारीरक-मानसिकस्वास्थ्यं प्राप्येत तत् भाग्यायते एव ।