सुभाषितम्

असंशयं महाबाहो मनो दुर्निग्रहं चलम्।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते॥

भगवद्गीता ६/३५

asaṃśayaṃ mahābāho mano durnigrahaṃ calam।
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate॥

पदच्छेदः

असंशयं, महाबाहो, मनः, दुर्निग्रहं, चलम्, अभ्यासेन, तु, कौन्तेय, वैराग्येण, च, गृह्यते ।


तात्पर्यम्

हे अर्जुन ! मनः नियन्त्रयितुम् अशक्यं चञ्चलं च इत्यत्र संशयः नास्ति । तथापि अभ्यासेन वैराग्येण च तस्य नियन्त्रणं शक्यं भवति ।


आङ्ग्लार्थः

O mighty-armed son of Kunti, it is undoubtedly very difficult to curb the restless mind, but it is possible by constant practice and by detachment.

"https://sa.wikiquote.org/w/index.php?title=असंशयं_महाबाहो...&oldid=16743" इत्यस्माद् प्रतिप्राप्तम्