असत्प्रलापं पारुष्यं...

सुभाषितम्

असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा ।
चत्वारि वाचा राजेन्द्र न जल्पेन्नानुचिन्तयेत् ॥

महाभारतम्/अनुशासनपर्व(१३) ३५/५

asatpralāpaṃ pāruṣyaṃ paiśunyamanṛtaṃ tathā ।
catvāri vācā rājendra na jalpennānucintayet ॥

पदच्छेदः

असत्प्रलापं, पारुष्यं, पैशुन्यम्, अनृतं, तथा, चत्वारि, वाचा, राजेन्द्र, न, जल्पेत्, न, अनुचिन्तयेत् ।


तात्पर्यम्

दुष्टं जल्पनं, कठोरं वचनं, पिशुनम्, असत्यम् - एतानि न वक्तव्यानि, न चिन्तनीयानि च ।


आङ्ग्लार्थः

O King of Kings! You should never think of or utter these four types of words in your speech namely incoherent, insulting and criticising others, as also untrue.