अस्ति ग्रीवा शिरो नास्ति...

अस्ति ग्रीवा शिरो नास्ति द्वौ भुजौ करवर्जितौ ।
सीतापहरणसामर्थ्ये न रामो न च रावणः ॥

कण्ठः विद्यते, मस्तकं न विद्यते । उभौ भुजौ स्तः, किन्तु करौ न स्तः । सीतापहरणे समर्थः, किन्तु रामः अपि न, रावणः अपि न । अत्र ’सीता’ इत्यस्य शैत्यम् इति अर्थः ग्रहीतव्यः । कञ्चुकं नाम चोलं शैत्यम् अपहरति ।

उत्तरम्

कञ्चुकम्