अस्मिन्नु खलु अक्षरे...
देशकालातीतम् अक्षरम् !
अस्मिन्नु खलु अक्षरे गार्गि आकाशः ओतश्च प्रोतश्च । - बृहदारण्यकोपनिषत् ३-८-११
हे गार्गि, अस्मिन् एव खलु अक्षरे आकाशः ओतश्च प्रोतश्च ।
आकाशो नाम प्रधानादपि सूक्ष्मतरम् अव्याकृततत्त्वम् । त्रिगुणात्मकं प्रधानमेव सूक्ष्मं तत्त्वम् ।
अव्याकृताकाशं तु प्रधानस्यापि कारणभूतं तत्त्वम् । नामरूपरहितम् इन्द्रियागोचरम्, सूक्ष्मातिसूक्ष्मम्
आकाशम्, अव्याकृतम्, बीजम्, अव्यक्तम्, सुप्तिः इत्यादिशब्दैः अभिधीयते । अनुमानगम्यं, शास्त्रगम्यं
चैतत् । नैव त्वनुभवगम्यम् । इदमेव हि अव्याकृताकाशम् नाम ॥
एतादृशाव्याकृतस्यापि कारणभूतम् अक्षरं कथं भवेत् ? न क्षरतीति अक्षरं परं ब्रह्म । अक्षरे एव
खलु इदम् अव्याकृताकाशम् ओतं प्रोतं च । न हि अक्षरं विहाय अव्याकृताकाशं जीवितुम् अर्हति ।
अक्षराधीनमेव तु अव्याकृताकाशस्य अस्तित्वम् । चिन्मात्रस्वरूपम् अक्षरमेव हि सर्वव्यापि चराचरात्मकस्य
विश्वस्य आधारभूतम् आस्पदभूतं चास्ति । देशकालयोरपि कारणभूतम् इदमक्षरम् । एतत्प्रतिपादनायैव
सर्वशास्त्रप्रवृत्तिः ॥