अस्मिन् आत्मनि सर्वाणि...

अस्मिन् आत्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः,
सर्वे एते आत्मानः समर्पिताः ॥ - बृहदारण्यकोपनिषत् २-५-१५

अस्मिन्नेव आत्मनि सर्वाणि भूतानि, सर्वा देवताः, सर्वे लोकाः, सर्वे प्राणिनः, इमे
सर्वे आत्मानश्च समर्पिताः ।

आत्मा नाम जगत्कारणभूतं परं ब्रह्म । आत्मैव ब्रह्म, ब्रह्मैव च आत्मा । आत्मनः
जातमिदं विश्वम् आत्मन्येव लीयते हि । आप्नोति इति आत्मा इति व्युत्पत्तिम् अनुसृत्य
सर्ववस्तुव्यापकः आत्मा भवति ॥

अस्मिन्नेव आत्मनि सर्वे प्राणिनः समर्पिताः । ब्रह्मादयः पिपीलिकापर्यन्ताः सर्वेऽपि प्राणिनः
आत्मैव । इन्द्रचन्द्रादयश्च सर्वे देवाः आत्मैव । चतुर्दश लोकाश्च आत्मैव । सर्वे प्राणाः
(सर्वाणि इन्द्रियाणि) आत्मैव । सर्वे जीवात्मानश्च आत्मैव । ईदृशम् आत्मानम् आत्मत्वेन
जानन् ज्ञानी अपि सर्वात्मा भवति । सर्वोऽपि अयं द्वैतप्रपञ्चः आत्मन्येव कल्पितो दृश्यते ॥