अहमन्नमहमन्नमहमन्नम्...

अहमन्नमहमन्नमहमन्नम् । अहमन्नादो अहमन्नादो अहमन्नादः । - तैत्तिरीयोपनिषत् ३-१०-८

अहमेव अन्नम्, अहमेव अन्नम्, अहमेव अन्नमस्मि । अहमेव च अन्नादः, अहमेव अन्नादः, अहमेव अन्नादः
अस्मि इति ज्ञानी आत्मानं जानाति ॥

ब्रह्म आत्मस्वरूपत्वेन विज्ञाय ज्ञानी कृतार्थः संवृत्तः । सर्वात्मभूतं ब्रह्म विज्ञाय ज्ञानी अपि स्वयं सर्वात्मा भवति ।
तादृशः ज्ञानी स्वानुभवं प्रदर्शयितुम्, स्वस्य स्वानन्दामृतसागरमग्नत्वं प्रकाशयितुम् इदं साम गायति ॥

'अहमेव अन्नम् अन्नादश्च अस्मि' इति ज्ञानी उद्घोषयति । यद्यपि स्वयम् ज्ञानी अद्वितीयः आत्मा एव, तथापि
अन्नम् अन्नादश्च अहमेव इति ज्ञानी जानाति आत्मानम् । अन्नं नाम खाद्यः आहारः, अन्नादो नाम खादकः,
अन्नम् अन्नादश्च उभयमपि ब्रह्मस्वरूपमेव । आत्मज्ञानिनः पूर्णदृष्ट्या उच्चनीचभेद एव नास्ति । सर्वेषु पदार्थेषु
परिपूर्णः एक आत्मा नाम ब्रह्मैव । ज्ञानिनः अनुभवोऽयम् ॥