अहमस्मि वीरिणी ॥
अहमस्मि वीरिणी ॥ (ऋग्वेदः १०-४८-५)
सम्पाद्यताम्अहं वीरिणी अस्मि ।
- महिला इति गौणदृष्टिः जगति सर्वत्र दरीदृश्यते । महिला जीवने यावदधिकं साधयति चेदपि तस्याः अस्तित्वं तु द्वितीयस्तरे एव । पुरुषस्य कामतृषनिवारिणी, पुत्राणां प्रसवयन्त्रमात्रम्, केषुचित् समाजेषु गृहसेविका इति तस्याः अभिज्ञानम् । अस्यामपि परिस्थितौ काचित् धैर्येण यत्किञ्चित् साधयति चेत् सा अपवादरूपेण परिगण्यते । एतस्य कारणं वेदाः, वेदाध्ययनाय स्त्रीणाम् अवसरः नास्ति इत्येतत् इति केचन अज्ञानिनः लपन्ति । एवं तर्हि एते वेदमन्त्राः कस्याः मुखतः उद्भूताः ?
- कल्पनालोके विहरन्तः कवयः स्त्रीं चञ्चलां मन्यते चेदपि, गृहं, गृहजनानां मनांसि तया निरूह्यते । भावीप्रजानां गर्भावस्थातः वर्धनस्य उत्तरदायित्वं समर्थतया निर्वहति महिला एव ! पतिः यदि अवगमनपूर्वकं व्यवहरेत् तर्हि सा भवति आत्मीया सखी । महिला स्वस्य सहजसामार्थ्यानि अभिजानती धैर्यशालिनी भवेत्, साधिका भवेत्, उत्तमा प्रेरिका भवेत् । अव्यवस्थितस्य समाजस्य परिष्काराय 'अहं वीरिणी अस्मि' इति सा घोषयेत् । स्वेच्छाचारः पुरुषाय अपि न शोभते, न वा महिलायै ।