आकाशमुष्टिहननन्यायः
मुष्टिभिः आकाशस्य प्रहारं कुर्वन्ति चेत् व्यर्थं भवति खलु तथा निष्फलं प्रयत्नं सूचयितुम् अस्य न्यायस्य प्रयोगः भवति । यस्तन्तूननुपादाय तुरीमात्रपरिग्रहात् ।
पटं कर्तुं समीहते स हन्याद् व्योम मुष्टिभिः ॥
(जैमिनीयप्रकरणं, सर्वदर्शनसंग्रहे )