आचार्यात् पादम् आधत्ते...

सुभाषितम्

आचार्यात् पादम् आधत्ते पादं शिष्यः स्वमेधया ।
पादं सब्रह्मचारिभ्यः पादं कालक्रमेण च ॥

ācāryāt pādam ādhatte pādaṃ śiṣyaḥ svamedhayā ।
pādaṃ sabrahmacāribhyaḥ pādaṃ kālakrameṇa ca ॥

पदच्छेदः

आचार्यात्, पादम्, आधत्ते, पादं, शिष्यः, स्वमेधया, पादं, सब्रह्मचारिभ्यः, पादं, कालक्रमेण, च ।


तात्पर्यम्

शिष्यः आचार्यात् पादभागं ज्ञानं प्राप्नोति । स्वीयया बुद्धिशक्त्या अपरं पादभागं सम्पादयति । सहाध्यायिभ्यः अन्यत् पादभागम् आसादयति । कालक्रमेण अपरं पादभागं ज्ञानं प्राप्स्यति ।


आङ्ग्लार्थः

A student gets a quarter (knowledge) from his teacher, a quarter by his own intelligence. A quarter from his fellow students and a quarter in due course of time.