एषः ब्रह्मविद्वरिष्ठः !

आत्मक्रीडः आत्मरतिः क्रियावान् एष ब्रह्मविदां वरिष्ठः । - मुण्डकोपनिषत् ३-१-४

आत्मक्रीडः आत्मरतिः आत्मक्रिय एव ब्रह्मविदां वरिष्ठः ॥

ब्रह्मज्ञानी नाम कः ? सः द्वैतव्यवहारम् अस्मद्वदेव करोति वा न वा ?
इति अनेके पृच्छन्ति । ईदृशानां प्रश्नानां प्रतिवचनं ददाति अयं मन्त्रः ॥

आत्मक्रीडः आत्मरतिः आत्मक्रियश्च यः असौ एव ज्ञानिपुङ्गवः । एतानि
त्रीण्यपि लक्षणानि स्वानुभवगम्यान्येव । आत्मज्ञानी अपि अज्ञानिवदेव
सर्वव्यवहारान् यद्यपि करोति, तथापि सर्वे ते व्यवहाराः केवलम् आभासमात्रा
एव, नाटकमात्रा एव, चेष्टामात्रा एव भवन्ति । अज्ञानिनां तु सत्या भवन्ति ।
इयानेव विशेषः ॥

ज्ञानी नाम आत्मक्रीडः आत्मरतिश्च भवति । न हि ज्ञानिनः अनात्मवस्तुषु
आसक्तिर्वा रतिर्वा सम्भवेत् । आनन्दस्वरूपस्यैव सतः आत्मज्ञानिनः सुखाभासे
आसक्तिः भवेद्वा ? सदा अमृतमेव पिबतः सामुद्रं जलं पातुम् इच्छा भवेद्वा ?
परमार्थतस्तु आत्मनः भिन्नतया द्वैतप्रपञ्चो नाम ज्ञानिनः नैवास्ति ॥

"https://sa.wikiquote.org/w/index.php?title=आत्मक्रीडः_आत्मरतिः...&oldid=16546" इत्यस्माद् प्रतिप्राप्तम्