आप्नुहि श्रेयांसमति समं क्राम ॥

आप्नुहि श्रेयांसमति समं क्राम ॥ (अथर्ववेदः २-११-१)

सम्पाद्यताम्

समानान् अतिक्रम्य गम्यताम्, श्रेयः प्राप्यताम् ।

'यत्र स्मः तत्रैव यदि तिष्ठेम तर्हि सुख-शान्ति-सम्पत्तयः अस्मान् अन्विष्य नागमिष्यन्ति । अस्माभिः ते उपसर्पणीयाः । स्पर्धामनोभावः यदि स्यात् तर्हि इदम् उपसर्पणं तीव्रतरं स्यात् । समानान् अतिक्रम्य गमनोत्साहः उद्भवति । किन्तु इयं स्पर्धा भवेत् स्वास्थ्ययुता । अद्यत्वे अस्मिन् जगति अतिशयेन स्पर्धा विद्यते चेदपि, स्पर्धायां सर्वेपि वेगेन धावन्तः दृश्यन्ते चेदपि 'श्रेयः प्राप्यताम्' इत्येतत् वचनं तु स्वप्नायते एव । युद्धे, परस्परविनाशने एव उद्युक्ताः स्मः । समग्रविनाशस्य असिः शिरसः उपरि डोलायमानः एव विद्यते । अस्य कारणमिदमेव - अग्रे धावनावसरे समानान् अग्रेसृतान् च मर्दयन्तः चलन्तः स्मः ! अन्येषां स्मारकस्य उपरि अस्माकं भवनस्य निर्माणे उद्युक्ताः स्मः । इदं सर्वथा न युक्तम् । पार्श्वे गमनावसरे श्रेयः प्राप्तुं शक्यः । न केवलं तावत्, पृष्ठतः पतितानां करावलम्बनमपि दातुं शक्यम् । तदा ते अस्मत्समम् आगताः भवन्ति । तदा अस्माभिः अग्रे सरणीयम् । एवं पृष्ठतः विद्यमानान् समानान् कुर्याम, पुनः समानान् अतिक्रम्य अग्रे गच्छेम । अयमेव श्रेयोमार्गः !!