आप्नोति स्वाराज्यम् ।...

आप्नोति स्वाराज्यम् । आप्नोति मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः ।
श्रोत्रपतिर्विज्ञानपतिः ॥ - तैत्तिरीयोपनिषत् १-६

व्याहृत्युपासकः स्वाराज्यं प्राप्नोति, मनसाम् अधिपतिर्भवति । वागिन्द्रियस्य नेत्रेन्द्रियस्य
च अधिपतिर्भवति । श्रोत्रेन्द्रियाणां विज्ञानस्य च अयम् अधिपतिर्भवति ॥

योऽयम् उपासकः भूः, भुवः, सुवः, महः इत्येताः चतस्रः व्याहृतीः भूर्लोकः, अन्तरिक्षलोकः,
स्वर्गलोकः, आदित्यः इति एवंरूपेण उपास्ते तस्य स्वाराज्यफलमेव लभ्यते । महः इति
व्याहृतिम् ब्रह्मत्वेन उपासीत ॥

एवमुपासकस्य स्वाराज्यं लभ्यते । एतासां व्याहृतीनाम् आत्मा भूत्वा उपासकः विराटपुरुषवत्
स्वयमपि स्वराट् भवति । अयमुपासकः आत्मार्थं सर्वानपि कामान् लभेत, तथैव परेभ्योऽपि
तदीयानि फलानि प्रापयेत् ॥

मनसः, वचसः, नेत्राणाम्, श्रोत्राणाम् विज्ञानस्य च अयम् अधिपतिर्भवति । सिद्धसङ्कल्पो ह्ययम् ।
स्वाधीनकृताष्टमहासिद्धिः अयं धीरः । अनेन व्याहृत्युपासनेन स्वाराज्यफलमेव प्राप्नोति ॥