यत्र सुगन्धः भवति तत्र तस्य पुष्पस्य आस्वादार्थं भृङ्गाः कुतश्चित् आयान्ति । अर्थात् यत्र गुणाः भवन्ति तत्र तेषां गुणानां रसग्राहकाः समागच्छन्ति । ‘गुणाः पूजास्थानम्’ इति सर्वत्र संगतं भवति । द्रष्टव्यम् -

अकारेणैव चतुरास्तर्कयन्ति परेङिगतम् ।
गर्भस्थकेतकीपुष्पमामोदेनैव षट्पदाः ॥ सु. भांडागार (१५८/२३३) सा-७८१
"https://sa.wikiquote.org/w/index.php?title=आमोदषट्पदन्यायः&oldid=8442" इत्यस्माद् प्रतिप्राप्तम्