आम्रान् पृष्टः कोविदारान् आचष्ट इति न्यायः

एकः अपरं ‘अत्र आम्रवृक्षाः कुत्र सन्ति’ इति पृष्टवान् । अपरः आम्रवृक्षाणां विषये किमपि अनुक्त्वा कोविदारवृक्षाणां विषये विवरणं दत्तवान् । एतादृशसन्दर्भे वक्तुः वचने विश्वासः करणीयः वा न वा इति शङ्का भवति । असंबद्धम् उत्तरं यः ददाति तस्य विषये अस्य न्यायस्य प्रयोगः क्रियते ।

द्रष्टव्यम् -महाभाष्यम् २-१-४५