आरघट्टघटीयन्त्रन्यायः

आरघट्टः नाम कूपात् जलम् उद्धर्तुम् उपयुज्यमानं पात्रम् । रज्ज्वाः अन्ते भाण्डम् एकं बद्ध्वा तत् कूपे शनैः त्यक्त्वा कूपात् जलम् उद्धरन्ति । भाण्डात् जलं रिक्तीकृत्य पुनः भाण्डं कूपे पातयन्ति । एवं स्वैरं जलस्य उद्धरणं क्रियते । शरीरे श्वासरुपेण सञ्चरन् वायुः आरघट्ट- घटीयन्त्रन्यायेन प्रत्येकं नाड्यां संचरति । पुनः पुनः क्रियमाणम् एकं विषयं सूचयितुम् अस्य न्यायस्य प्रयोगः भवति ।

सार्धं घटीद्वयं नाडीरेकैकार्कोदया वहेत् ।
आरघट्टघटी भ्रान्तिन्यायो नाडयोः पुनः पुनः ॥