आशारुपिणः मोदकान् खादित्वा अतीव आनन्दः प्राप्तः इति काल्पनिकेन आनन्देन मानवः आशया जीवति । अग्रे मधुरं लभ्येत अनुकूलाः दिवसाः भविष्यन्ति संकटस्य दिनानि शाश्वतानि न भवन्ति इति अनया आशया सः जीवति । सः मधुरे स्वप्नमये भाविकाले विहरति । एतादृशस्य मनुष्यस्य वर्णनम् अनेन न्यायेन क्रियते ।

द्रष्टव्यम् -

आशामोदकतृप्ता ये ये चोपार्जितमोदकाः ।
रसवीर्यविपाकादितुल्यं तेषां प्रसज्यते ॥ न्यायकन्दली
"https://sa.wikiquote.org/w/index.php?title=आशामोदकतृप्तन्यायः&oldid=8457" इत्यस्माद् प्रतिप्राप्तम्