आसप्तमान् तस्य लोकान्...

अविधिकर्माणि भयङ्कराणि !

आसप्तमान् तस्य लोकान् हिनस्ति । - मुण्डकोपनिषत् १-२-३

अविधिकर्माणि कुर्वन् आत्मनः आसप्तमान् लोकान् हिनस्ति ॥

शास्त्रेषु गृहस्थस्य नित्याग्निहोत्रं विहितम् अस्ति । गृहस्थेन प्रतिदिनम्
अवश्यं कर्तव्यमेव अग्निहोत्रं कर्म । अग्निहोत्रेण प्रत्यहं सम्यक् अनुष्ठितेन
अनुष्ठातुः मरणानन्तरं स्वर्गलोकप्राप्तिरेव भवति । यथाशास्त्रं सम्यक्
अननुष्ठितेन तु अग्निहोत्रेण कर्मणा न केवलं अग्निहोत्रिणः यजमानस्य
अनिष्टमेव फलं भवति इति, किं तु सः पूर्वापरान् स्वान् सप्त लोकान्
हिनस्ति, नरकान् लोकान् गमयति च । अविधिकर्मणां फलमिदम् ॥

शास्त्रीयकर्मभिः शास्त्रोक्तविधानेन श्रद्धया अनुष्ठीयमानैः यजमानस्य इष्टानि
फलानि भवन्ति । यथाविधि अननुष्ठीयमानैस्तु तैरेव कर्मभिः न केवलम्
इष्टं फलं न भवतीति, किं तु विरूद्धान्येव फलानि भवन्ति । अविधिना कर्म
कुर्वाणो मानवः प्रपितामह पितामहपितृन् पुत्रपौत्रप्रपौत्रान् आत्मानं च नरके
पातयति । तस्मात् अविधिकर्माणि भयङ्कराणि भवन्ति इत्यर्थः ॥