इदं ब्रह्म, इदं क्षत्रम्, इमे लोकाः...

इदं ब्रह्म, इदं क्षत्रम्, इमे लोकाः, इमे वेदाः, इमे देवाः, इमानि भूतानि, इदं सर्वं यदयमात्मा । - बृहदारण्यकोपनिषत् २-४-६

इदं ब्रह्म, इदं क्षत्रम्, इमे लोकाः, इमे वेदाः, इमे देवाः, इमानि भूतानि-इत्येतत् सर्वम् आत्मैव ।

‘इदं सर्वं यदयमात्मा’ इत्येषः प्रसिद्धो मन्त्रः । 'इदं सर्वम् आत्मैव' इति अस्य मन्त्रस्य अर्थः । ‘इदं सर्वम्’
इत्युक्ते सर्व शब्देन किं किं स्वीकार्यम् ? इति संशये अयं मन्त्रः तं परिहरति । ब्रह्म, क्षत्रियम्, वैश्यम्, शूद्रम्
इति चत्वारोऽपि वर्णाः आत्मैव । ब्रह्मचर्यम्, गार्हस्थ्यम्, वानप्रस्थता, संन्यासः इति चत्वारोऽपि आश्रमाः
आत्मैव । अतल वितल सुतल रसातल तलातल महातल पातालाख्याः सप्त अधोलोकाः आत्मैव । भूः भुवः
सुवः महः जनः तपः सत्याख्याः ऊर्ध्वलोकाः सप्त आत्मैव ॥

ऋग्वेद यजुर्वेद सामवेद अथर्ववेदाख्याः चत्वारोऽपि वेदाः आत्मैव । इन्द्र आदित्य वरुण मित्राद्याः सर्वे देवाश्च
आत्मैव । एताः सर्वाः प्रजाश्च आत्मैव । इदं सर्वम् आत्मैव ॥