इन्द्रजालम् नाम इन्द्रेण विशिष्टयोगपद्धत्या निर्मितं जालम् । तेन एकं वस्तु अपरमिव भासते । इन्द्रजालम् नाम माया ।मायिकः (मायावी) विशिष्टेन कौशलेन मायया वा एकं वस्तु अपरम् इव दर्शयति । गर्भधारणं, अपत्यजननं, अपत्यवृद्धिः एतत् सर्वम् अगम्यम् अतर्क्यम् अस्ति अर्थात् इन्द्रजालम् अस्ति । द्रष्टव्यम् -

एतस्मात् किमितीन्द्रजालनपरं यद् गर्भवासस्थितम् ।
रेतश्चेतति हस्तमस्तकपदप्रोद्भूतनानाङ्कुरम् ॥
यर्यायेण शिशुत्वयौवनजरावेषैरनेकैर्वृतम् ।
पश्यत्यत्ति शृणोति जिघ्रति तथाऽगच्छत्यथो गच्छति ॥
"https://sa.wikiquote.org/w/index.php?title=इन्द्रजालन्यायः&oldid=8465" इत्यस्माद् प्रतिप्राप्तम्