इह चेदशकद्बोद्धुं प्राक् शरीरस्य विस्रसः । - काठकोपनिषत् २-३-४

अस्य शरीरस्य पतनात् पूर्वम् आत्मानं जानाति चेत् स एव कृतकृत्यः ।

आत्मज्ञानप्राप्त्यर्थमेव इदं मानवजन्म अस्माकं प्राप्तमस्ति । उपाधिरहितस्वरूप एव
हि आत्मा नाम । अयमेव आत्मा ब्रह्म इति श्रुतयः प्रतिपादयन्ति । आत्मनि ब्रह्मत्वेन
अवगते तद् आत्मज्ञानं भवति, आत्मनि देहत्वेन विज्ञाते तद् भ्रान्तिज्ञानं भवति । भ्रान्तिज्ञानमेव
अध्यासः । अध्यासादेव जन्ममरणानि, अनर्थाः, दुःखपरम्पराश्च भवन्ति ॥

इदं शरीरम् अनित्यं क्षणिकं च । कदा कुत्र कस्मै किं भवति ? इति वा, कस्मिन्क्षणॆ अयं
देहः पतेद् ? इति वा न कोऽपि जानाति । न ज्ञायते, न च ज्ञातव्यम् । बुद्धिमद्भिः मानवैः
अवश्यं कर्तव्यं नाम 'आत्मनः विज्ञानम्' । आत्मज्ञानं यद्यपि कष्टमिव दृश्यते, तथापि नैव
कष्टं, किं तु सुसुखमेव । दुर्लभमपि आत्मज्ञानं विवेकिना सम्पादनीयमेव । तदैव मानवजन्मनः
सार्थक्यम् ॥

"https://sa.wikiquote.org/w/index.php?title=इह_चेदशकद्बोद्धुं...&oldid=16285" इत्यस्माद् प्रतिप्राप्तम्