ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् । - ईशावास्योपनिषत् १

इदं सर्वमपि जगत् परमात्मनैव व्याप्तमस्ति इति द्रष्टव्यम् ।

सर्वेषामपि शास्त्राणां सारभूताः वेदाः, ज्ञाननिधयो वेदाः । जगति विद्यमानानां सकलधर्मग्रन्थानामपि
आकरभूता हि वेदाः वेदानां सारा वेदान्ताः, वेदानां तात्पर्यमेव वेदान्ताः वेदानां हृदयमेव हि वेदान्ताः ।
वेदानां परं लक्ष्यमेव वेदान्ताः । वेदान्तानामेव हि नामान्तरम् ‘उपनिषदः’ इति ॥

प्रमाणत्वेन स्वीकृताः प्रसिद्धाः उपनिषदः चतुर्दश । तासां मध्ये प्राथम्येन प्रसिद्धा हि इयम् ‘ईशावास्योपनिषत्’ ।
अस्या उपनिषदः आदिमो मन्त्रोऽयम् । सकलवेदोपनिषत्पुराणेतिहासानां सारभूतम् उपदेशम् अयं मन्त्रः उपदिशति ।
स च सन्देशः, सर्वमिदं जगत् परमेव ब्रह्म इति । एक एव महाकाशः यथा घटघटिकाद्युपाधिभेदेन भिन्न इव दृश्यते,
एवमेव एकमेव परं ब्रह्म नानोपाधिसम्बन्धात् अनेकमिव अवभासते । परमार्थतः सर्वमिदं विश्वं परं ब्रह्मैव ॥

"https://sa.wikiquote.org/w/index.php?title=ईशावास्यमिदं_सर्वं...&oldid=16257" इत्यस्माद् प्रतिप्राप्तम्