ईश्वरः
- अयः स्वभावादचलं बलाच्चलत्यचेतनं चुम्बकसंनिधाविव ।
- तनोति विश्वेक्षितुरीक्षितेरिता जगन्ति मायेश्वरतेयमीशितुः ॥
- अभिज्ञानशाकुन्तलम्, IV-१६
- कुतस्तस्य विजयादन्यद् यस्य भगवान् पुराणपुरुषो नारयणः स्वयं मङ्गलान्याशास्ते ।
- वेणीसंहारम्, पृ ० ३२४
- को हि नाम भगवता सन्दिष्टे विकल्पयति ।
- वेणीसंहरम्, पृ ० २६५
- हरेः स्वतन्त्रस्य कृपापि तद्वद्धत्ते न सा जातिकुलाद्यपेक्षाम् ।
- चैतन्यचन्द्रोदयनाटकम्, VIII-४
- किमीश्वराणां परोक्षम् ।
- अभिज्ञानशाकुन्तलम्, पृ ० ४३५